वारबाणः

सुधाव्याख्या

बाणं वारयति, वृणोति वा । ‘वृञ् वरणे' (स्वा० उ० से०) । ण्यन्तो वा । ‘कर्मण्यण्' । (३.२.१) । (मयूरव्यंसकादित्वात् ‘२.१.७२’) । राजदन्तादित्वात् (२.२.३१) वा परनिपातः । यद्वा वारमाच्छादकं वानमस्य । ‘पूर्वपदात्' (८.४.३) इति णत्वम् ॥