वर्मितः

सुधाव्याख्या

वर्मणा नह्यते स्म । ‘सत्याप–’ (३.१.२५) इति णिच् । ‘णाविष्ठवत्’ (वा० ६.४.११५) इति टिलोपः । वर्म सञ्जातमस्य वा । तारकादित्वात् (५.२.३६) इतच् ॥


प्रक्रिया

धातुः -


णहँ बन्धने
णह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नह् - णो नः 6.1.65
वर्म + टा + नह् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25, उपपदमतिङ् 2.2.19
वर्म + नह् + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
वर्म + नह् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वर्मित - णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम् (6.4.115) । वार्तिकम् ।
वर्मित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वर्मित + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्मित + रु - ससजुषो रुः 8.2.66
वर्मित + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्मितः - खरवसानयोर्विसर्जनीयः 8.3.15