पुच्छः

सुधाव्याख्या

प्विति । पुच्छति । ‘पुच्छ प्रमादे । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘पुच्छभाण्ड-’ (३.१.२०) इति निपातनाद्वा । -इगुपधत्वात्कोवा –इति मुकुटश्चिन्त्यः । अन्तरङ्गत्वात्तुकि सतीगुपधत्वाभावात् । ‘पुच्छः पश्चात्प्रदेशः स्याल्लाङ्गूले पुच्छमिष्यते' इति मेदिनी ॥