लाङ्गूलम्

सुधाव्याख्या

लङ्गति । ‘लगि गतौ’ (भ्वा० प० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (उ० ४.९०) । प्रज्ञाद्यण् (५.४.३८) । 'लाङ्गूलं पुच्छशेफयोः’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


लगिँ गतौ
लग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लन्ग् - इदितो नुम् धातोः 7.1.58
लंग् - नश्चापदान्तस्य झलि 8.3.24
लङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
लङ्ग् + ऊर - खर्जिपिञ्जादिभ्य ऊरोलचौ (४.९०) । उणादिसूत्रम् ।
लङ्गूल - रलयोरेकत्वम् ।
लङ्गूल + अण् - प्रज्ञादिभ्यश्च 5.4.38
लङ्गूल + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लङ्गूल् + अ - यस्येति च 6.4.148
लाङ्गूल - तद्धितेष्वचामादेः 7.2.117
लाङ्गूल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लाङ्गूल + अम् - अतोऽम् 7.1.24
लाङ्गूलम् - अमि पूर्वः 6.1.107