अवरम्

सुधाव्याख्या

अव राति । ‘रा दाने’ (अ० प० अ०) ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । यद्वा न वृणोति, व्रियते, वा । 'वृञ् वरणे’ (स्वा० उ० से०) । अच् (३.१.१३४) । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् वा । ‘अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु (इति मेदिनी) । 'गजान्त्यजङ्घादिदेशेऽवरं स्याच्चरमे त्रिषु’ इति रुद्रः ॥ ‘गात्रावरे पूर्वपश्चात्पादयोः परिभाषिते’ इति भागुरिः । ‘द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना’ इति रभसः । कश्चित्तु-अष्टीवद्भागादूर्ष्वमवरम् । अधस्तु गात्रम् इत्याह । अपारा पवर्गादिमध्या च । ‘अपरं तूत्तरार्धे स्यात्पश्चाद्भागे च दन्तिनाम्’ इति विश्वः ।