गात्रम्

सुधाव्याख्या

द्वाविति । पूर्वा च पश्चाच्च पूर्वपश्चाच्च ते जङ्घे च । पूर्वपश्चाज्जङ्घे आदी यस्य सः । पूर्वपश्चादिश्चासौ देशश्च । पूर्वजङ्गाभागो गात्रम् । पश्चाज्जङ्घाभागोऽवरम् । गातेऽनेन । ‘गाङ् गतौ’ (अ० आ० अ०) । यद्वा एत्यनेन । ‘इण् गतौ’ (अ० प० अ०) । ‘बहुलं तणि’ (वा० २.४.५४) इति गादेशः । ष्ट्रन् (उ० ४.१५९) । ‘गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे’ (इति मेदिनी) ॥