कुञ्जरः

सुधाव्याख्या

अतिशयितः कुञ्जो हनुरस्य । ‘खमुखकुञ्जेभ्यो रः’ (वा० ५.२.१०७) । ‘कुञ्जरोऽनेकपे केशे कुञ्जरा धातकीद्रुमे । पाटलायां च’ इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


कुञ्ज + र - रप्रकरणे ख-मुख-कुञ्जेभ्य उपसंख्यानम् (5.2.107) । वार्तिकम् ।
कुञ्जर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुञ्जर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुञ्जर + रु - ससजुषो रुः 8.2.66
कुञ्जर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुञ्जरः - खरवसानयोर्विसर्जनीयः 8.3.15