नागः

सुधाव्याख्या

न अगः । नगे भवो वा । अण् (४.३.५३) । ‘नागो मतङ्गजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेठे स्यादुत्तरस्थितः । नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे’ इति हैमः ॥