चरः

सुधाव्याख्या

चरति । ‘चर गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘चरोऽक्षधूतभेदे च भौमे चारे त्रसे चले’ (इति मेदिनी) ॥ प्रज्ञाद्यणि (५.४.३८) ‘चारः’ अपि । ‘चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः’ (इति मेदिनी) ॥