यथार्हवर्णः

सुधाव्याख्या

येति । अर्हति । ‘अर्ह पूजायाम्’ (भ्वा० प० से०) । अच् (३.१.१३४) । यो योऽर्हः । यथार्हं वर्णो रूपमस्य । ‘वर्णः स्याद्भेदरूपयोः इति धरणिः ॥


प्रक्रिया

धातुः -


अर्चँ पूजायाम्
अर्ह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्ह् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
अर्ह् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
यथा + अर्ह + सु - अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु 2.1.6
यथा + अर्ह - सुपो धातुप्रातिपदिकयोः 2.4.71
यथार्ह - अकः सवर्णे दीर्घः 6.1.101
यथार्ह + सु + वर्ण + सु - अनेकमन्यपदार्थे 2.2.24
यथार्हवर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
यथार्हवर्ण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यथार्हवर्ण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यथार्हवर्ण + रु - ससजुषो रुः 8.2.66
यथार्हवर्ण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यथार्हवर्णः - खरवसानयोर्विसर्जनीयः 8.3.15