ज्यौतिषिकः

सुधाव्याख्या

ज्योतिर्नक्षत्राद्यधिकृत्य कृतो ग्रन्थः । ‘अधिकृत्य कृते ग्रन्थे’ (४.३.८७) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । ज्योतिषमधीते वेद वा । 'क्रतूक्थादि-’ (४.२.६०) इति ठक् ॥


प्रक्रिया

धातुः -


ज्योतिस् + सु + अण् - अधिकृत्य कृते ग्रन्थे 4.3.87
ज्योतिस् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
ज्योतिस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ज्योतिष - आदेशप्रत्यययोः 8.3.59
ज्योतिष + ठक् - क्रतूक्थादिसूत्रान्ताट्ठक् 4.2.60
ज्योतिष + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ज्योतिष + इक् + अ - ठस्येकः 7.3.50
ज्योतिष् + इक - यस्येति च 6.4.148
ज्यौतिषिक - तद्धितेष्वचामादेः 7.2.117
ज्यौतिषिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ज्यौतिषिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ज्यौतिषिक + रु - ससजुषो रुः 8.2.66
ज्यौतिषिक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ज्यौतिषिकः - खरवसानयोर्विसर्जनीयः 8.3.15