यायजूकः

सुधाव्याख्या

पुनः पुनः भृशं वा जयते । -क्रियासमभिहारे-’ (३.१.२२) इति यङ् । ‘यजजपदशां यङः’ (३.२.१६६) इत्यूकः ।


प्रक्रिया

धातुः -


यजँ देवपूजासङ्गतिकरणदानेषु
यज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यज् + यङ् - धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22
यज् + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
यज् + यज् + य - सन्यङोः 6.1.9
य + यज् + य - पूर्वोऽभ्यासः 6.1.4, हलादिः शेषः 7.4.60
य + यज् + य + ऊक - यजजपदशां यङः 3.2.166
यायज् + य + ऊक - दीर्घोऽकितः 7.4.83
यायज् + अ + ऊक - यस्य हलः 6.4.49
यायज् + ऊक - अतो लोपः 6.4.48
यायजूक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यायजूक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यायजूक + रु - ससजुषो रुः 8.2.66
यायजूक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यायजूकः - खरवसानयोर्विसर्जनीयः 8.3.15