सूरिः

सुधाव्याख्या

सूते, सूयते, वा । ‘षूङ् प्रसवे (अ० अ० से०) । ‘षूङ् प्राणिगर्भविमोचने’ (दि० आ० से०) वा । ‘सूङः क्रिः’ (उ० ४.६४) एतेन सुवति--इति विगृह्णन् स्वामी प्रत्युक्तः । उक्तनिर्देशासम्भवात् ।– सुनोति । ‘सुञो दीर्घश्च' इति रिदीर्घौ -इति वदन्मुकुटोऽपि । उज्ज्वलदत्तादिष्वस्यादर्शनात् । केचित्तु-सुरोऽर्कहलयोः पुंसि । सूरः सूर्योऽस्त्युपास्यतयास्य । अत इनौ (सूरी) नान्तम्- इत्याहुः । दूरदृक् कोविदः सूरी’ इति रभसः॥