कृष्टिः

सुधाव्याख्या

कर्षति । ‘कृष विलेखने' (भ्वा० प० अ०) । क्तिच् (३.३.१७४) । बाहुलकात्तिर्वा । संज्ञापूर्वकत्वान्न गुणः । 'कृष्टिः स्यादाकर्षेस्त्री बुधे पुमान्’ (इति मेदिनी) । रन्तिदेवोऽपि-आकर्षणे स्त्रियां कृष्टिर्भवेन्ना तु विपश्चिति’ इति ॥