उपवीतम्

सुधाव्याख्या

उपवीयते स्म । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । ‘अजेर्व्यघञपोः’ (२.४.५६) । ‘वी गत्यादिषु’ (अ० प० अ०) वा । क्तः (३.२.१०२) । यद्वा उपाजति स्म । उपवेति स्म वा । ‘गत्यर्था-’ (३.४.७२) इति क्तः॥