नियमः

सुधाव्याख्या

नीति । यत् कर्म अनित्यं न तु यावज्जीवं कर्तव्यम्, आगन्तुभिः कादाचित्कैः कामनया समयविशेषादिभिः साधनैः साध्यमुपवासस्नानजपादि । तत् । नियमः । प्राग्वत् । ‘नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते’ (इति मेदिनी) ॥