विरजस्तमसः

सुधाव्याख्या

अथेति । रजस्तमोभ्यां विगताः । ‘निरादयः-’ (वा० २.२.१८) इति समासः । विगते रजस्तमसी येभ्यः इति वा॥


प्रक्रिया

धातुः -


वि + रजस्तमस् + भ्याम् - निरादयः क्रान्ताद्यर्थे पञ्चम्या (2.2.18) । वार्तिकम् ।
विरजस्तमस् - सुपो धातुप्रातिपदिकयोः 2.4.71
विरजस्तमस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विरजस्तमस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विरजस्तमस् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विरजस्तम + रु - ससजुषो रुः 8.2.66
विरजस्तम+ र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विरजस्तमः - खरवसानयोर्विसर्जनीयः 8.3.15