द्वयातिगः

सुधाव्याख्या

द्वयमतिगच्छन्ति । ‘अन्येष्वपि-’ (वा० ३.२.४८) इति डः ॥


प्रक्रिया

धातुः -


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्वय + अम् + अति + गम् + ड - अन्यत्रापि दृश्यत इति वक्तव्यम् ।
द्वय + अति + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
द्वय + अति + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
द्वय + अति + ग् + अ - टेः 6.4.143
द्वयातिग - अकः सवर्णे दीर्घः 6.1.101
द्वयातिग + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
द्वयातिग + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
द्वयातिगास् - प्रथमयोः पूर्वसवर्णः 6.1.102
द्वयातिगारु - ससजुषो रुः 8.2.66
द्वयातिगार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्वयातिगाः - खरवसानयोर्विसर्जनीयः 8.3.15