ब्रह्मचारी

सुधाव्याख्या

ब्रति । ब्रह्म वेदः । तदध्ययनार्थं व्रतमप्युपचाराद्ब्रह्म । ब्रह्म चरितुं शीलमस्य । 'व्रते’ (३.२.८०) इति 'सुपि-' (३.२.७८) इति वा णिनि: । यद्वा ब्रह्म तपो ज्ञानं वा चरत्यर्जयत्यवश्यम् । आवश्यका-'(३.३.१७०) इति णिनिः ॥