कुलीनः

सुधाव्याख्या

कुलस्यापत्यम् । कुलात्खः (४.१.१३९) । 'अपूर्वपदादन्यतरस्यां यड्ढकञौ’ (४.१.१४०) । ‘कौलेयकः सारमेये कुलीने’ (इति मेदिनी) । ‘कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीसूर्यामिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्’ (इति मेदिनी) ॥