कटः

सुधाव्याख्या

केति । कटते । ‘कटे वर्षावरणयोः’ (भ्वा० प० से०) । ‘पुंसि-’ (३.३.११८) इति घः । ‘शवे श्रोणौ किलिञ्जे च गजगण्डे भृशो कटः’ इति शाश्वतः ॥