जघनम्

सुधाव्याख्या

क्लीति । हन्यते । ‘हन्तेः शरीरावयवे द्वे च’ (उ० ५.३२) इत्यच् ।–‘हनो जघ-’ इति क्युर्जघादेशश्च इति मुकुटस्त्वपाणिनीयः । यद्वा वक्रं हन्ति । यङ्लुगन्तात् ‘अच-’ (३.१.१३४) । गत्यर्थस्य ‘भृशं हन्यते' इति विग्रहासम्भवात् । गत्यर्थानां कौटिल्य एव यङ्विधानात् । ‘हन्यते' इति कर्मविग्रहे पचाद्यचोऽसम्भवाच्च । जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि’ (इति मेदिनी) ॥