मूर्च्छालः

सुधाव्याख्या

म्विति । मूर्छास्यास्ति । सिध्मादिषु (ग० ५.२.९७) । ‘क्षुद्रजन्तूपतापाच्च’ इति पठितत्वाल्लच् । ‘प्राणिस्थादातः-’ (५.२.९५) इति न भवति । ‘प्राण्यङ्गादेव’ इति (वार्तिकरूप) व्याख्यानात् ॥


प्रक्रिया

धातुः -


मूर्च्छा + सु + लच् - क्षुद्रजन्तूपतापाच्चेष्यते (5.2.97) । गणसूत्रम् ।
मूर्च्छा + लच् - सुपो धातुप्रातिपदिकयोः 2.4.71
मूर्च्छा + ल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मूर्च्छाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मूर्च्छाल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मूर्च्छाल + रु - ससजुषो रुः 8.2.66
मूर्च्छाल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मूर्च्छालः - खरवसानयोर्विसर्जनीयः 8.3.15