न्युब्जः

सुधाव्याख्या

न्युबिति । न्युब्जनम् । ‘उब्ज आर्जवे’ (तु० प० से०) । घञ् (३.५.१८) । ‘भुजन्युब्जो पाण्युपतापयोः’ (७.३.३१) इति साधुः । न्युब्जः पृष्ठवक्रत्वकारी यस्यास्ति । अर्शआद्यच् (५.२.१२७) । रुजा रोगेण भुग्ने पुरुषे न्युब्जो वर्तते । ‘न्युब्जः कुब्जे कुशस्रुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले’ इति हैमः ॥