श्वित्रम्

सुधाव्याख्या

श्वेतते । ‘श्विता वर्णे’ (भ्वा० आ० से०) । ‘स्फायितञ्चि-’ (उ० २.१३) इति रक् ॥


प्रक्रिया

धातुः -


श्विताँ वर्णे
श्वित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्वित् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
श्वित् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्वित्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्वित्र + अम् - अतोऽम् 7.1.24
श्वित्र - अमि पूर्वः 6.1.107