कुष्ठम्

सुधाव्याख्या

क्विति । कुष्णात्यङ्गम् । ‘कुष निष्कर्षे’ (क्र्या० प० से०) । ‘हनिकुषि-’ (उ० २.२) इति क्थन् । कुत्सितं तिष्ठति वा । ‘सुपि-’ (३.२.४) इति कः । ‘अम्बाम्ब-’ (८.३.९७) इति षः । ‘कुष्ठं भेषजरोगयोः इति हैमः ॥