कुण्डः

सुधाव्याख्या

अम्रिति । जाराज्जातः । कुड्यते कुलमनेन । ‘कुडि दाहे’ । (भ्वा० आ० से०) । घञ् (३.३.१९) । ‘कुण्डमभ्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ, जारात्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ (इति मेदिनी) । सुते पुमान् । सुतायां तु जातिलक्षणः (४.१.६३) ङीष् भवत्येव ॥