पारस्त्रैणेयः

सुधाव्याख्या

स्यादिति । परस्त्रिया अपत्यम् । प्राग्वत् । ‘अनुशतिकादीनां च’ (७.३.२०) इत्युभयपदवृद्धिः ॥


प्रक्रिया

धातुः -


परस्त्री + ङस् + ढक् - कल्याण्यादीनामिनङ् 4.1.126
परस्त्री + इनङ् + ढक् - सुपो धातुप्रातिपदिकयोः 2.4.71
परस्त्री + इन् + ढ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परस्त्र् + इन् + ढ - यस्येति च 6.4.148
परस्त्र् + इन् + एय - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
पारस्त्रैनेय - अनुशतिकादीनां च 7.3.20
पारस्त्रैणेय - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
पारस्त्रैणेय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पारस्त्रैणेय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारस्त्रैणेय + रु - ससजुषो रुः 8.2.66
पारस्त्रैणेय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारस्त्रैणेय - खरवसानयोर्विसर्जनीयः 8.3.15