कानीनः

सुधाव्याख्या

कानीति । कन्याया अपत्यम् । ‘कन्यायाः कनीन च’ (४.१.११६) इत्यण् । ‘कानीनः कन्यकासुते । कर्णे व्यासे’ इति हेमचन्द्रः ॥