प्रालम्बम्

सुधाव्याख्या

प्रेति । माल्यमेव कण्ठादूर्ध्वं लम्बमानम् । प्रालम्बते । ‘लबि अवस्रंसने’ (भ्वा आ० से०) । अच् (३.१.१३४) ॥ ऋजु लम्बितुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः ।