वैकक्षकम्

सुधाव्याख्या

वैकेति । विशिष्टः कक्षोऽस्माद्विकक्षमुरः । तत्र भवम् । ‘तत्र भवः’ (४.३.५३) इत्यण् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥ यदुरसि उपवीतवत्तिर्यक् क्षिप्तम् । तत् ।