विशेषकः

सुधाव्याख्या

विशिनष्टि । ‘शिष्लृ विशेषणे’ (रु० उ० अ०) । ण्वुल् (३.१.१३३) । ‘विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु’ (इति मेदिनी) ॥ द्वितीयं तिलकम्, तुरीयं विशेषकं, च स्त्रियां न भवतः । किं तु पुंनपुंसकयोः ।