तिलकम्

सुधाव्याख्या

तिलति । ‘तिल स्नेहने’ (तु० प० से०) । तेलति वा । ‘तिल गतौ’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) ‘तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके । तिलकं रुचके लोम्नि’ इति हैमः ॥