उत्सादनम्

सुधाव्याख्या

उत्साद्यतेऽनेन । ‘षद्लृ विशरणादौ’ (तु० प० अ०) । ण्यन्तः । ल्युट् (३.३.११७) । ‘उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च’ इति हैममेदिन्यौ ॥