उत्तरासङ्गः

सुधाव्याख्या

उत्तरे ऊर्ध्वभागे आसज्यते । ‘षञ्ज सङ्गे’ (भ्वा० प० अ०) । घञ् (३.३.१९) ॥


प्रक्रिया

धातुः -


षन्जँ सङ्गे
संज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, धात्वादेः षः सः 6.1.64
उत्तर + ङि + संज् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपपदमतिङ् 2.2.19
उत्तर + संज् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
उत्तर + संज् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उत्तर + संग् + अ - चजोः कु घिन्ण्यतोः 7.3.52
उत्तर + सङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
उत्तरसङ्ग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उत्तरसङ्ग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत्तरसङ्ग + रु - ससजुषो रुः 8.2.66
उत्तरसङ्ग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत्तरसङ्गः - खरवसानयोर्विसर्जनीयः 8.3.15