शम्भली

सुधाव्याख्या

शं सुखं भलते । ‘भल परिभाषणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘शालूकं शम्भलीशललशुष्क-’ इति शभेदात्तालव्यादिः । सं भलते । इति (सम्भली) दन्त्यादिरपि ॥