वेश्या

सुधाव्याख्या

वेशो वेश्यागृहे गृहे । नेपथ्ये च’ (इति मेदिनी) । वेशेन नेपथ्येन शोभते । ‘कर्मवेशाद्यत्’ (५.१.१००) । वेशे वेश्यावाटे भवा वा । ‘दिगादिभ्यो यत्’ (४.३.५४) । वेशः प्रवेशोऽस्त्यस्याः । ‘अन्येभ्योऽपि-’ (वा० ५.४.१२०) इति यब् वा । ‘वेश्यं वेश्यागृहे क्लीबं गणिकायां तु योषिति’ (इति मेदिनी) । ‘वेष्या’ इति मूर्धन्यमध्यपाठोऽपि । वेवेष्टि । ‘विष्लृ व्याप्तौ’ (जु० उ० अ०) । अघ्न्यादिः । (उ० ४.११२) ॥