विः

सुधाव्याख्या

वाति । ‘वा गतौ’ (अ० प० अ०) । ‘वातेर्डिच्च’ (उ० ४.१३४) इतीण् । -‘वेञो डित्’ (उ० ४.७२)-इति स्वामिमुकुटौ चिन्त्यौ । ईचिप्रत्ययप्रकरणेऽस्य पाठाद् ‘वीचिः’ इति रूपापत्तेः ॥