चाटकैरः

सुधाव्याख्या

तयोरिति । चटकायाश्चटकस्य वा पुमपत्यम् । ‘चटकाया ऐरक्’ (४.१.१२८) । 'चटकादपीति वक्तव्यम्' (४.१.१२८) फलितम् । तयोश्चटकाचटकयोः - इति मुकुटः । तन्न । ‘पुमान् स्त्रिया' (१.२.६६) इत्यन्तरङ्गेकशेषप्रवृत्त्या द्वन्द्वासम्भवात् ॥