कुनाशकः

सुधाव्याख्या

कुं नाशयति । ‘णश अदर्शने' (दि० प० अ०) । ण्यन्तः । पचाद्यच् (३.१.१३४) । स्वार्थे कन् ॥


प्रक्रिया

धातुः - णशँ अदर्शने


नश् - णो नः 6.1.65, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नश् + णिच् - हेतुमति च 3.1.26
नश् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
नाश् + इ - अत उपधायाः 7.2.116
कु + अम् + नाश् + इ + अच् - उपपदमतिङ् 2.2.19, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कु + नाश् + इ + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
कु + नाश् + अच् - णेरनिटि 6.4.51
कु + नाश् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुनाश + सु + कन् - संज्ञायां कन् 5.3.75
कुनाश + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुनाश + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुनाशक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुनाशक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुनाशक + रु - ससजुषो रुः 8.2.66
कुनाशक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुनाशकः - खरवसानयोर्विसर्जनीयः 8.3.15