यवासः

सुधाव्याख्या

यौति यु मिश्रणामिश्रणयोः' (अ० प० से०) । ‘ऋतन्यजि-' (उ० ४.२) इत्यासः ॥


प्रक्रिया

धातुः - यु मिश्रणेऽमिश्रणे च


यु + आस - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
यो + आस - सार्वधातुकार्धधातुकयोः 7.3.84
यव् + आस - एचोऽयवायावः 6.1.78
यवास + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यवास + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवास + रु - ससजुषो रुः 8.2.66
यवास + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवासः - खरवसानयोर्विसर्जनीयः 8.3.15