जीवन्तिका

सुधाव्याख्या

जीवति । झच् (उ० ३.१२७) । ‘जीवन्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः' इति मेदिनी ॥


प्रक्रिया

धातुः - जीवँ प्राणधारणे


जीव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीव् + झच् - रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि (३.१२७) । उणादिसूत्रम् ।
जीव् + झ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जीव् + अन्त् + अ - झोऽन्तः 7.1.3
जीवन्त + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
जीवन्त + ई - हलन्त्यम् 1.3.3 लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जीवन्त् + ई - यस्येति च 6.4.148
जीवन्ती + सु + कन् - संज्ञायां कन् 5.3.75
जीवन्ती + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
जीवन्ती + क - हलन्त्यम् 1.3.3
जीवन्तिक - केऽणः 7.4.13
जीवन्तिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
जीवन्तिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
जीवन्तिका - अकः सवर्णे दीर्घः 6.1.101
जीवन्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जीवन्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीवन्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68