स्रवा

सुधाव्याख्या

स्रवति । ‘स्रु गतौ' (भ्वा० प० अ०) । अच् (३.१.१३४) ॥ संज्ञापूर्वकत्वाद्गुणाभावे स्रुवाऽपि । ‘स्रुवा द्वयोर्होमपात्रे सल्लकीमूर्वयोः स्त्रियाम्' (इति मेदिनी) ॥