शीतभीरुः

सुधाव्याख्या

शीताद्भीरुः ॥ ‘शतभीरुः' इति वा पाठः । शतं वियोगिनो भीरवोऽस्याः । 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायन्ती भूपदी तृणशून्यकम्' इति वाचस्पतिः ॥