आस्फोता

सुधाव्याख्या

सैवेति । आस्फोटयति । ‘स्फुटिर् विकसने’ (भ्वा० प० से०) । पचाद्यच् । पृषोदरादित्वात् (६.३.१०९) टस्य तो वा । ‘आस्फोता विष्णुक्रान्तायां वनमल्ल्यर्कपर्णयोः' इति रभसः । ‘आस्फोतस्तु पुमानर्कपर्णे स्यात्कोविदारके । आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति' इति मेदिनी ॥


प्रक्रिया

धातुः - स्फुटिँर् विशरणे


स्फुट् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
आङ् + स्फुट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
आ + स्फुट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + स्फोट - पुगन्तलघूपधस्य च 7.3.86
आ + स्फोत - पृषोदरादीनि यथोपदिष्टम् 6.3.109
आस्फोत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आस्फोत + टाप् - अजाद्यतष्टाप्‌ 4.1.4
आस्फोत + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आस्फोता - अकः सवर्णे दीर्घः 6.1.101
आस्फोता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आस्फोता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आस्फोता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68