जम्भः

सुधाव्याख्या

जम्भयत्यम्लत्वात् । 'जभी गात्रविनामे' (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । ‘रधिजभो' (७.१.६१) इति नुम् । ‘जम्भः स्याद्दानवान्तरे । दन्तभोजनयोरंसे हनौ जम्बीरतूनयो:' ॥