आरेवतः

सुधाव्याख्या

आरेवयति नि:सारयति मलं सारकत्वात् । 'रेवृ, प्लव, गतौ' (भ्वा० आ० से०) । णिच् (३.१.२६) । विच् (३.२.७५) । अतति । 'अत सातत्यगमने' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । आरेव् चासावतश्च ॥


प्रक्रिया

धातुः - रेवृँ प्लवगतौ , अतँ सातत्यगमने


रेवृँ प्लवगतौ
रेव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + रेव् + णिच् - हेतुमति च 3.1.26
आ + रेव् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आ + रेव् + इ + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
आरेव् + विच् - णेरनिटि 6.4.51
आरेव् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरेव् - वेरपृक्तस्य 6.1.67
अतँ सातत्यगमने
अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अत् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
अत् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आरेव् + सु + अत + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
आरेव् + अत - सुपो धातुप्रातिपदिकयोः 2.4.71
आरेवत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आरेवत आरेवत + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरेवत + रु - ससजुषो रुः 8.2.66
आरेवत + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आरेवतः - खरवसानयोर्विसर्जनीयः 8.3.15