शोथघ्नी

सुधाव्याख्या

शोथं हन्ति । ‘अमनुष्य-' (३.२.५३) इति टक् । ‘टिड्ढा-' (४.१.१५) इति ङीप् ॥


प्रक्रिया

धातुः - हनँ हिंसागत्योः


हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोथ + अम् + हन् + टक् - उपपदमतिङ् 2.2.19, अमनुष्यकर्तृके च 3.2.53
शोथ + हन् + टक् - सुपो धातुप्रातिपदिकयोः 2.4.71
शोथ + हन् + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शोथ + ह् + न - गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98
शोथ + घ् + न - हो हन्तेर्ञ्णिन्नेषु 7.3.54
शोथघ्न + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
शोथघ्न + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शोथघ्न् + ई - यस्येति च 6.4.148
शोथघ्नी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शोथघ्नी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोथघ्नी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68