वितुन्नम्

सुधाव्याख्या

वीति । विगतं तुन्नं व्यथनमस्मात् । ‘वितुन्नं सुनिषण्णे च शैवाले च नपुंसकम्' (इति मेदिनी) ॥


प्रक्रिया

वि + तुन्न + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.4) । वार्तिकम् ।
वितुन्न - सुपो धातुप्रातिपदिकयोः 2.4.71
वितुन्न + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वितुन्न + अम् - अतोऽम् 7.1.24
वितुन्नम् - अमि पूर्वः 6.1.107