शृङ्गः

सुधाव्याख्या

शृणाति । ‘शृ हिंसायाम्' (क्र्या० प० से०) । ‘शृणातेर्हस्वश्च' (उ० १.१२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे शिखरे चिह्न क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोऋषभौषधौ' (इति मेदिनी) ॥